सङ्ग्राम

समिति, समित्, समर, संख्य, समीक, रण, युद्ध, युध्, प्रधन, मृध, समुदय, संयत्, कलि, संयुग, द्वन्द्व, आयोधन, सम्प्रहार, कलह, आक्रन्द, आहव, अभ्यागम, संस्फोट, प्रविदारण, प्रहरण, अनीक, आजि, सङ्गर, सम्पराय, समाघात, प्रघात, समाह्वय, जन्य, अभिसम्पात, सम्मर्द, विग्रह

सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,
युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।
द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,
संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
सम्परायः समाघातः प्रघातश्च समाह्वयः ।
जन्यं स्यादभिसम्पातः सम्मर्दो विग्रहस्तथा ॥ ४५४ ॥
verse 2.1.1.453
page 0052

पृतना

सेना, ध्वजिनी, पताकिनी, वाहिनी, बल, सैन्य, चक्र, चमू, वरूथिनी, अनीकिनी, अनीक

पृतना सेना ध्वजिनी पताकिनी वाहिनी बलं सैन्यम् ।
चक्रं चमूर्वरूथिन्यनीकिनी स्यादनीकं च ॥ ४५७ ॥
verse 2.1.1.457
page 0053