इन्दु

चन्द्र, चन्द्रमस्, ओषधीश, सोम, राजा, रोहिणीवल्लभ, अब्ज, ऋक्षेश, अत्रिनेत्रप्रसूत, प्रालेयांशु, श्वेतरोचिस्, शशाङ्क, द्विजराज, रजनिकर, पीयूषरुचि, निशीथिनीनाथ, जैवातृक, मृगाङ्क, विधु, दाक्षायणीरमण

इन्दुश्चन्द्रश्चन्द्रमा ओषधीशः,
सोमो राजा रोहिणीवल्लभोऽब्जः ।
ऋक्षेशः स्यादत्रिनेत्रप्रसूतः,
प्रालेयांशुः श्वेतरोचिः शशाङ्कः ॥ ४२ ॥
द्विजराजो रजनिकरः पीयूषरुचिर्निशीथिनीनाथः ।
जैवातृको मृगाङ्को विधुश्च दाक्षायणीरमणः ॥ ४३ ॥
verse 1.1.1.42
page 0006

सहस्रपत्त्र

शतपत्त्र, अम्बुज, कुशेशय, तामरस, सरोरुह, विप्रसून, कमल, महोत्पल, सरोज, अब्ज, नलिन, पुष्कर, राजीव, अरविन्द, पद्म, पङ्कज

सहस्रपत्त्रं शत्रपत्त्रमम्बुजं
कुशेशयं तामरसं सरोरुहम् ।
विसप्रसूनं कमलं महोत्पलं,
सरोजमब्जं नलिनं च पुष्करम् ॥ ६७९ ॥
राजीवमरविन्दं च पद्मं पङ्कजमिष्यते ।
verse 3.1.1.679
page 0077