नभस्

मरुद्वर्त्मन्, वियत्, विहायस्, तारापथ, पुष्कर, अन्तरिक्ष, व्योमन्, अम्बर, विष्णुपद, ख, द्यौ, विहायसा, गगन, द्यु

नभो मरुद्वर्त्म वियद्विहाय-
स्तारापथः पुष्करमन्तरिक्षम् ।
व्योमाम्बरं विष्णुपदं च खं द्यौ-
र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
verse 1.1.1.137
page 0017

चेल

चीर, वासस्, कर्पट, आच्छादन, निवसन, अम्बर, अंशुक, वस्त्र, सिचय, पट, पोट

चेलं चीरं वासः कर्पटमाच्छादनं निवसनं च ।
अम्बरमंशुकमुक्तं वस्त्रं सिचयः पटः पोटः ॥ ५४८ ॥
verse 2.1.1.548
page 0062

नाक

अम्बर

संवर्तः परिवर्तश्च हायने कथ्यतेऽम्बरे नाकः ।
verse 5.1.1.801
page 0092