समीप

सनीड, समर्याद, आरात्, सदेश, सवेश, ससीमन्, उपकण्ठ, अभ्यर्ण, अभ्यग्र, अभ्याश, सन्निधान, अन्तिक, सन्निकृष्ट, आसन्न, सविध, पार्श्व, उपान्त, अपदान्तर

समीपं सनीडं समर्यादमारात्,
सदेशं सवेशं ससीमोपकण्ठम् ।
तथाभ्यर्णमभ्यग्रमभ्याशमाहु-
र्बुधाः सन्निधानान्तिके सन्निकृष्टम् ॥ ६९२ ॥
आसन्नं सविधं पार्श्वमुपान्तमपदान्तरम् ।
विप्रकृष्टं परं दूरमाराद् व्यवहितं स्मृतम् ॥ ६९३ ॥
verse 4.1.1.692
page 0080