घट

करीर, कलश, कुट, कुम्भ, निप, कर्करी, करक, वर्धनी, गलन्तिका, गर्गरी, मन्थनी, मणिक, अलिञ्जर

घटः करीरः कलशः कुटः कुम्भो निपः स्मृतः ॥ ३१६ ॥
कर्करी करकः प्रोक्तो वर्धनी च गलन्तिका ।
गर्गरी मन्थनी प्रोक्ता मणिकः स्यादलिञ्जरः ॥ ३१७ ॥
verse 2.1.1.316
page 0038

करीर

वंशाङ्कुर, वृक्षविशेष

वंशाङ्कुरे करीरं वृक्षविशेषेऽपि कथयन्ति ॥ ८२८ ॥
verse 5.1.1.828
page 0095