श्वस्

श्रेयस, कल्याण, श्वोवसीय, शिव, शुभ, भविक, भावुक, श्रेयस्, भव्य, भद्र, मङ्गल

श्वः श्रेयसं स्यात्कल्याणं श्वोवसीयं शिवं शुभम् ।
भविकं भावुकं श्रेयो भव्यं भद्रं च मङ्गलम् ॥ १२२ ॥
verse 1.1.1.122
page 0015

हेमन्

स्वर्ण, जातरूप, सुवर्ण, भर्मन्, रुक्म, हाटक, शातकुम्भ, गाङ्गेय, गैरिक, भूरि, चन्द्र, रै, कल्याण, निष्क, अष्टापद, जाम्बूनद, हिरण्य, कनक, महारजत, काञ्चन, कार्तस्वर, चामीकर, कर्बुर, तपनीय

हेम स्वर्णं जातरूपं सुवर्णं,
भर्मं रुक्मं हाटकं शातकुम्भम् ।
गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,
राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।
कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
verse 2.1.1.173
page 0022

अथ

अनन्तर, कल्याण, सम्प्रश्न

अथानन्तरकल्याणसम्प्रश्नादिषु कथ्यते ।
verse 5.1.1.886
page 0101