बर्हिस्

दर्भ, कुथ, कुश

शष्पं बालतृणं प्रोक्तं सर्वं च तृणमर्जुनम् ॥ १९० ॥
घासस्तु यवसः प्रोक्तो बर्हिर्दर्भः कुथः कुशः ।
verse 2.1.1.190
page 0024

वल्गा

रश्मि, कुश

चर्मदण्डः कशा प्रोक्ता वल्गारश्मिकुशाः स्मृताः ॥ ४४२ ॥
verse 2.1.1.442
page 0051

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074