संवर्त

परिवर्त, क्षय, युगान्त, जगद्विनाश, कल्पान्त, समसुप्ति, संहार, महाप्रलय

संवर्तः परिवर्तः क्षयो युगान्तो जगद्विनाशश्च ।
कल्पान्तः समसुप्तिः संहारः स्यान्महाप्रलयः ॥ ११७ ॥
verse 1.1.1.117
page 0015

आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035

राजयक्ष्मन्

क्षय, शोष

राजयक्ष्मा क्षयः शोषः शोफः श्वयथुरिष्यते ।
verse 2.1.1.602
page 0068