गौरीपुत्र

षण्मुख, शक्तिपाणि, क्रौञ्चाराति, कार्तिकेय, विशाख, स्कन्द, स्वामिन्, तारकारि, कुमार, सेनानी, अग्निभू, बाहुलेय, गाङ्गेय, ब्रह्मचारिन्, गुह, वर्हिणवाहन, महासेन, महातेजस्, शरजन्मन्

गौरीपुत्रः षण्मुखः शक्तिपाणिः,
क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।
स्कन्दः स्वामी तारकारिः कुमारः,
सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः ।
महासेना महातेजाः शरजन्मा च कथ्यते ॥ २० ॥
verse 1.1.1.19
page 0003

हेमन्

स्वर्ण, जातरूप, सुवर्ण, भर्मन्, रुक्म, हाटक, शातकुम्भ, गाङ्गेय, गैरिक, भूरि, चन्द्र, रै, कल्याण, निष्क, अष्टापद, जाम्बूनद, हिरण्य, कनक, महारजत, काञ्चन, कार्तस्वर, चामीकर, कर्बुर, तपनीय

हेम स्वर्णं जातरूपं सुवर्णं,
भर्मं रुक्मं हाटकं शातकुम्भम् ।
गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,
राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।
कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
verse 2.1.1.173
page 0022