ऐलविल

पौलस्त्य, वैश्रवण, किन्नरेश्वर, धनद, श्रीद, श्रीकण्ठसख, मनुष्यधर्मन्, धनाध्यक्ष, उत्तराशापति, यक्ष, कुबेर, नरवाहन, गुह्यक, राजराज, धनिन्, पुण्यजनेश्वर

ऐलविलः पौलस्त्यो वैश्रवणः किन्नरेश्वरो धनदः ।
श्रीदः श्रीकण्ठसखो मनुष्यधर्मा धनाध्यक्षः ॥ ७८ ॥
उत्तराशापतिर्यक्षः कुवेरो नरवाहनः ।
गुह्यको राजराजश्च धनी पुण्यजनेश्वरः ॥ ७९ ॥
verse 1.1.1.78
page 0010

यक्ष

राक्षस, गन्धर्व, सिद्ध, किन्नर, गुह्यक, विद्याधर, अप्सरस्, भूत, पिशाच, देवयोनि

यक्षराक्षसगन्धर्वसिद्धकिन्नरगुह्यकाः ।
विद्याधराप्सरोभूतपिशाचा देवयोनयः ॥ ८७ ॥
verse 1.1.1.87
page 0011