आदित्य

सवितृ, सहस्रकिरण, प्रद्योतन, भास्कर, तिग्मांशु, तरणि, दिनमणि, भास्वत्, विवस्वत्, हरि, मार्तण्ड, तपन, विकर्तन, इन, पूषन्, पतङ्ग, भग, सूर्य, गोपति, यम, दिनकर, सूर, अंशुमालिन्, रवि, मिहिर, विरोचन, अर्क, तिमिररिपु, द्युमणि, अंशुमत्, अंशु, हरिदश्व, सप्ताश्व, प्रभाकर, भानुमत्, भानु, ब्रध्न, हंस, खग, मित्र, चित्रभानु, अहर्पति, कर्मसाक्षिन्, जगच्चक्षुस्, द्वादशात्मन्, त्रयीतनु

आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-
स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।
मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,
सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।
हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।
कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
verse 1.1.1.35
page 0006

इन्द्र

दुश्च्यवन, हरि, सुरपति, सङ्क्रन्दन, वासव, वृत्रारि, बलसूदन, शतमख, वृद्धश्रवस्, कौशिक, जिष्णु, वज्रधर, सहस्रनयन, वास्तोष्पति, गोपति, पर्जन्य, मघवन्, वृषन्, हरिहय, प्राचीनबर्हिस्, पुरुहूत, पृतनाषाट्, पुरन्दर, पूर्वदिक्पति, स्वाराज्, आखण्डल, तुराषाह्, सुत्रामन्, गोत्रभिद्, सुनासीर, शक्र, उग्रधन्वन्, हरिवत्, पाकशासन, दिवस्पति, विडौजस्, मरुत्वत्, मेघवाहन

इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,
वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।
जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,
पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।
आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।
दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
verse 1.1.1.52
page 0008