लोल

चपल, चटुल, प्रचल, तरल, परिप्लव, अधीर, पारिप्लव, चलाचल, चञ्चल

लोलं चपलं चटुलं प्रचलं तरलं परिप्लवमधीरम् ।
पारिप्लवं च धीराश्चलाचलं चञ्चलं च कथयन्ति ॥ ६९५ ॥
verse 4.1.1.695
page 0080

द्राक्

चपल, लघु, मङ्क्षु, स्राक्, तूर्ण, त्वरित, आशु, शीघ्र, अरम्, अह्नाय, सत्वर, क्षिप्र, द्रुत, अञ्जसा, झटिति

द्राक् चपलं लघु मङ्क्षु स्राक् तूर्णं त्वरितमाशु शीघ्रमरम् ।
अह्नाय सत्वरं च क्षिप्रं द्रुतमञ्जसा झटिति ॥ ६९७ ॥
verse 4.1.1.697
page 0081