विष्णु

कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम

विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004

इन्द्र

दुश्च्यवन, हरि, सुरपति, सङ्क्रन्दन, वासव, वृत्रारि, बलसूदन, शतमख, वृद्धश्रवस्, कौशिक, जिष्णु, वज्रधर, सहस्रनयन, वास्तोष्पति, गोपति, पर्जन्य, मघवन्, वृषन्, हरिहय, प्राचीनबर्हिस्, पुरुहूत, पृतनाषाट्, पुरन्दर, पूर्वदिक्पति, स्वाराज्, आखण्डल, तुराषाह्, सुत्रामन्, गोत्रभिद्, सुनासीर, शक्र, उग्रधन्वन्, हरिवत्, पाकशासन, दिवस्पति, विडौजस्, मरुत्वत्, मेघवाहन

इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,
वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।
जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,
पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।
आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।
दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
verse 1.1.1.52
page 0008