तमी

तमिस्रा, तमस्विनी, विभावरी, नक्तमुखा, शर्वरी, क्षपा, त्रियामा, क्षणदा, निशीथिनी, निशा, दोषा, रजनी, यामिनी, वसति, वासतेयी, श्यामा, रात्रि

तमी तमिस्रा कथिता तमस्विनी,
विभावरी नक्तमुखा च शर्वरी ।
क्षपा त्रियामा क्षणदा निशीथिनी,
निशा च दोषा रजनी च यामिनी ॥ १०७ ॥
वसतिर्वासतेयी च श्यामा रात्रिश्च कथ्यते ।
verse 1.1.1.107
page 0014

अवतमस्

अन्धतमस्, संतमस्, ध्वान्त, अन्धकार, तिमिर, तमस्, तमिस्रा, तमिस्र, भूछाया

अवतमसमन्धतमसं संतमसं ध्वान्तमन्धकारं च ।
तिमिरं तमस्तमिस्रां तमिस्रमिच्छन्ति भूछायाम् ॥ ११० ॥
verse 1.1.1.110
page 0014