दिवस

दिवा, दिन, द्यु, अहन्, वासर, घस्र

दिवसो दिवा दिनं द्युः प्रोक्तमहर्वासरस्तथा घस्रः ।
verse 1.1.1.106
page 0013

नभस्

मरुद्वर्त्मन्, वियत्, विहायस्, तारापथ, पुष्कर, अन्तरिक्ष, व्योमन्, अम्बर, विष्णुपद, ख, द्यौ, विहायसा, गगन, द्यु

नभो मरुद्वर्त्म वियद्विहाय-
स्तारापथः पुष्करमन्तरिक्षम् ।
व्योमाम्बरं विष्णुपदं च खं द्यौ-
र्विहायसा स्याद्गगनं तथा द्युः ॥ १३७ ॥
verse 1.1.1.137
page 0017