अस्थि

धातु, कीकस, कुल्य

अस्थीनि धातुकीकसकुल्यानि भवन्ति तुल्यानि ॥ ६३२ ॥
verse 3.1.1.632
page 0072

धातु

पृथिव्यादिभूत, शरीर, रसादि, लोह, स्वभाव, गैरिकादि

पृथिव्यादिषु भूतेषु शरीरेषु रसादिषु ।
लोहेषु च स्मृतो धातुः स्वभावे गैरिकादिषु ॥ ८५७ ॥
verse 5.1.1.857
page 0098

रस

शृङ्गारादि, लवणादि, पारद, राग, निर्यास, वीर्य, गुण, धातु, विष, घृतादि

शृङ्गारादिषु नवसु च लवणादिषु षट्सु पारदे रागे ।
निर्यासवीर्यगुणधातुविषघृतादौ रसः प्रोक्तः ॥ ८६१ ॥
verse 5.1.1.861
page 0098