अध्वन्

पथस्, पद्धति, एकपदी, वर्त्मन्, वर्तनी, सरणि, अयन, पदवी, मार्ग, पद्या, निगम

अध्वा पन्थाः पद्धतिरेकपदी वर्त्म वर्तनी सरणिः ।
अयनं पदवी मार्गः पद्या च निगद्यते निगमः ॥ २६० ॥
verse 2.1.1.260
page 0032

पत्तन

अधिष्ठान, निगम, पुटभेदन, नगर, नगरी, द्रङ्ग, स्थानीय, पुर्, पुरी, पुर

पत्तनं स्यादधिष्ठानं निगमः पुटभेदनम् ।
नगरं नगरी द्रङ्गः स्थानीयं पूः पुरी पुरम् ॥ २८५ ॥
verse 2.1.1.285
page 0034

निगम

श्रुति

मात्रा परिच्छदेऽपि क्षुद्रः क्रूरे श्रुतौ निगमः ॥ ७९६ ॥
verse 5.1.1.796
page 0092