पतन्

पतङ्ग, पतग, पतत्रिन्, पत्त्रिन्, शकुन्ति, शकुनि, शकुन्त, वयस्, विहायस्, विहग, विहङ्ग, विहङ्गम, पत्त्ररथ, गरुत्मत्, शकुन, खग, नगौकस्, पक्षिन्, वि, विष्किर, विकिर, अण्डज, नीडज, वाजि, द्विज

पतन्पतङ्गः पतगः पतत्री,
पत्त्री शकुन्तिः शकुनिः शकुन्तः ।
वयो विहायो विहगो विहङ्गो,
विहङ्गमः पत्त्ररथो गरुत्मान् ॥ २३७ ॥
शकुनः खगो नगौकाः पक्षी विर्विष्किरस्तथा विकिरः ।
अण्डजनीडजवाजिद्विजाश्च कथिताः समानार्थाः ॥ २३८ ॥
verse 2.1.1.237
page 0029

कङ्क

पत्त्र, शर, मार्गण, बाण, चित्रपुङ्ख, विशिख, इषु, कलम्ब, सायक, प्रदर, काण्ड, पृषत्क, पत्त्रिन्, खग, शिलीमुख, रोप

कङ्कपत्त्रशरमार्गणबाणाश्चित्रपुङ्खविशिखेषुकलम्बाः ।
सायकप्रदरकाण्डपृषत्काः पत्त्रिणः खगशिलीमुखरोपाः ॥ ४६६ ॥
verse 2.1.1.466
page 0054