अभियाति

अराति, अमित्र, रिपु, प्रतिपक्ष, विपक्ष, विरोधिन्, अरि, अहित, असहन, जिघांसु, परिपन्थिन्, पर, असुहृद्, प्रत्यर्थिन्, पर्यवस्थातृ, द्वेषिन्, वैरिन्, शात्रव, शत्रु, सपत्न, भ्रातृव्य, प्रत्यनीक, द्विषत्

अभियातिररातिरमित्ररिपू,
प्रतिपक्षविपक्षविरोध्यरयः ।
अहितोऽसहनश्च जिघांसुरिति,
प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।
शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
verse 2.1.1.455
page 0053

पर

पार

अर्वाक्कूलमपारं स्यात्परं पारमिति स्मृतम् ॥ ६६७ ॥
verse 3.1.1.667
page 0076

प्राग्र्य

प्राग्रहर, प्रवेक, अपर, वर्य, वरेण्य, वर, श्रेष्ठ, प्रेष्ठ, अनुत्तम, मधुर, मञ्जु, प्रिय, मञ्जुल, हृद्य, हारि, मनोहर, रुचिर, कान्त, पर, सुन्दर, सौम्य, साधु, वल्गु, चारु, सुषम, वाम, शुभ, पेशल, अग्र्य, प्रधान, प्रमुख, पुरोग, मुख्य, परार्ध्य, प्रवर, प्रवर्ह, अग्रेसर, सत्तम, उत्तम, ग्रामण्य, अग्रण्य

प्राग्र्यं प्राग्रहरं प्रवेकमपरं वर्यं वरेण्यं वरं,
श्रेष्ठं प्रेष्ठमनुत्तमं च मधुरं मञ्जु प्रियं मञ्जुलम् ।
हृद्यं हारि मनोहरं च रुचिरं कान्तं परं सुन्दरं,
सौम्यं साधु च वल्गु चारु सुषमं वामं शुभं पेशलम् ॥ ६८९ ॥
अग्र्यं प्रधानं प्रमुखं पुरोगं,
मुख्यं परार्ध्यं प्रवरं प्रवर्हम् ।
अग्रेसरं सत्तममुत्तमं च,
ग्रामण्यमग्रण्यमुदाहरन्ति ॥ ६९० ॥
verse 4.1.1.689
page 0080