हेमन्

स्वर्ण, जातरूप, सुवर्ण, भर्मन्, रुक्म, हाटक, शातकुम्भ, गाङ्गेय, गैरिक, भूरि, चन्द्र, रै, कल्याण, निष्क, अष्टापद, जाम्बूनद, हिरण्य, कनक, महारजत, काञ्चन, कार्तस्वर, चामीकर, कर्बुर, तपनीय

हेम स्वर्णं जातरूपं सुवर्णं,
भर्मं रुक्मं हाटकं शातकुम्भम् ।
गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,
राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।
कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
verse 2.1.1.173
page 0022

प्राज्य

भूरि, प्रभूत, प्रचुर, बहुल, बहु, पुरुज, पुष्कल, पुष्ट, अदभ्र

प्राज्यं भूरि प्रभूतं च प्रचुरं बहुलं बहु ।
पुरुजं पुष्कलं पुष्टमदम्रमभिधीयते ॥ ७०१ ॥
verse 4.1.1.701
page 0081