मधु

माधव, शुक्र, शुचि, नभस्, नभस्य, इष, ऊर्ज, सहस्, सहस्य, तपस्, तपस्य

चैत्रादिमासा मधुमाधवौ द्वौ,
ततः परं शुक्रशुची क्रमेण ।
नभोनभस्यौ कथिताविषोर्जौ,
सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
verse 1.1.1.114
page 0014

मकरन्द

मधु

पौष्पं रजः परागः स्यान्मकरन्दो मधुः स्मृतः ।
verse 2.1.1.188
page 0023

मध्वासव

शीधु, सुरा, प्रसन्ना, परिस्रुता, मदिरा, मदिष्ठा, कादम्बरी, स्वादुरसा, शुण्डा, गन्धोत्तमा, माधवक, हाला, कल्य, कश्य, मद्य, मैरेय, कापिशायन, माध्वीक, आसव, परिस्रुत्, वारुणी, मधु

मध्वासवः शीधु सुरा प्रसन्ना,
परिस्रुता स्यान्मदिरा मदिष्ठा ।
कादम्बरी स्वादुरसा च शुण्डा,
गन्धोत्तमा माधवकश्च हाला ॥ ३२९ ॥
कल्यं कश्यं तथा मद्यं मैरेयं कापिशायनम् ।
माध्वीकमासवः प्रोक्तः परिस्रुद्वारुणी मधु ॥ ३३० ॥
verse 2.1.1.329
page 0039

सारघ

माक्षिक, क्षौद्र, मधु, पुष्परस

सारघं माक्षिकं क्षौद्रं मधु पुष्परसस्तथा ॥ ६२१ ॥
verse 2.1.1.621
page 0070