आदित्य

सवितृ, सहस्रकिरण, प्रद्योतन, भास्कर, तिग्मांशु, तरणि, दिनमणि, भास्वत्, विवस्वत्, हरि, मार्तण्ड, तपन, विकर्तन, इन, पूषन्, पतङ्ग, भग, सूर्य, गोपति, यम, दिनकर, सूर, अंशुमालिन्, रवि, मिहिर, विरोचन, अर्क, तिमिररिपु, द्युमणि, अंशुमत्, अंशु, हरिदश्व, सप्ताश्व, प्रभाकर, भानुमत्, भानु, ब्रध्न, हंस, खग, मित्र, चित्रभानु, अहर्पति, कर्मसाक्षिन्, जगच्चक्षुस्, द्वादशात्मन्, त्रयीतनु

आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-
स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।
मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,
सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।
हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।
कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
verse 1.1.1.35
page 0006

शमन

समवर्तिन्, प्रेतपति, पितृपति, कीनाश, वैवस्वत, कृतान्त, कालिन्दीसोदर, काल, अन्तक, धर्मराज, यम, दण्डधर, हरि, दक्षिणाशापति, श्राद्धदेव

शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।
वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।
दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
verse 1.1.1.71
page 0010

इन्द्र

अनल, यम, नैरृत, वरुण, मरुत्, धनद, रुद्र, दिक्पालाः

इन्द्रानलयमनैर्ऋतवरुणमरुद्धनदरुद्रदिक्पालाः ॥ १०० ॥
verse 1.1.1.100
page 0013

युग्म

युग, युगल, द्वन्द्व, द्वितय, यम, यमल

युग्मं युगं च युगलं द्वन्द्वं द्वितयं यमं यमलम् ।
verse 4.1.1.700
page 0081

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098

काल

निमेषादि, यम, वर्ण, मृत्यु

निमेषादौ यमे वर्णे कालो मृत्यौ च कीर्त्यते ॥
verse 5.1.1.869
page 0099