कामपत्नी

रति

प्रद्युम्नो मकरध्वजो मनसिजः सङ्कल्पजन्माङ्गजः,
पञ्चेषुः कुसुमायुधश्च मदनो मारः स्मरो मन्मथः ।
कन्दर्पो झषकेतनो रतिपतिः श्रीनन्दनो हृच्छयः,
कामः शम्बरसूदनो मधुसखः शृङ्गारयोनिः स्मृतः ॥ ३२ ॥
दर्पकः शूर्पकारातिरनङ्गो विषमायुधः ।
आत्मभूर्मनसिशयः पुष्पधन्वा मनोभवः ॥ ३३ ॥
मापत्यमिरजश्चैव कामपत्नी रतिः स्मृता ।
verse 1.1.1.32
page 0005

रति

हास, शोक, क्रोध, उत्साह, भय, जुगुप्सा, विस्मय, शम, स्थायिभावाः

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्साविस्मयशमाः स्थायिभावाः प्रकीर्तिताः ॥ ९१ ॥
verse 1.1.1.91
page 0011

संवेशन

निधुवन, सम्प्रयोग, रहस्, रति, सुरत, मोहन

संवेशनं निधुवनं सम्प्रयोगो रहो रतिः ।
सुरतं मोहनं प्रोक्तं मणितं रतकूजितम् ॥ ५६९ ॥
verse 2.1.1.569
page 0064

आयल्लक

उत्कण्ठा, उत्कलिका, रति, रणरणक, औत्सुक्य, हृल्लेख, विरह, वियोग

आयल्लकमुत्कण्ठा स्यादुत्कलिका रतिश्च रणरणकम् ।
औत्सुक्यं हृल्लेखो विरहवियोगौ च तुल्यार्थौ ॥ ७४२ ॥
verse 4.1.1.742
page 0085

सम्भोग

रति, भुक्ति

रतिभुक्तयोः सम्भोगः पथिदेये स्त्रीधने च शुल्कं स्यात् ।
verse 5.1.1.828
page 0095