अभियाति

अराति, अमित्र, रिपु, प्रतिपक्ष, विपक्ष, विरोधिन्, अरि, अहित, असहन, जिघांसु, परिपन्थिन्, पर, असुहृद्, प्रत्यर्थिन्, पर्यवस्थातृ, द्वेषिन्, वैरिन्, शात्रव, शत्रु, सपत्न, भ्रातृव्य, प्रत्यनीक, द्विषत्

अभियातिररातिरमित्ररिपू,
प्रतिपक्षविपक्षविरोध्यरयः ।
अहितोऽसहनश्च जिघांसुरिति,
प्रथिताः परिपन्थिपरासुहृदः ॥ ४५५ ॥
प्रत्यर्थी पर्यवस्थाता द्वेषी वैरी च शात्रवः ।
शत्रुः सपत्नो भ्रातृव्यः प्रत्यनीको द्विषन्मतः ॥ ४५६ ॥
verse 2.1.1.455
page 0053