रोचिस्

शोचिस्, अभीशु, प्रद्योत, गभस्ति, रश्मि, घृणि, किरण, रुचि, रुच्, दीधिति, दीप्ति, द्युति, प्रभा, भा, विभा, भास्, उस्र, धामन्, वसु, केतु, मरीचि, प्रग्रह, उपधृति, वृष्णि, मयूख, अंशु, भानु, कर, पाद, विरोक, गो

रोचिः शोचिरभीशुः प्रद्योतगभस्तिरश्मिघृणिकिरणाः ।
रुचिरुग्दीधितिदीप्तिद्युतिप्रभाभाविभाभासः ॥ ३८ ॥
उस्रधामवसुकेतुमरीचिप्रग्रहोपधृतिवृष्णिमयूखाः ।
अंशुभानुकरपादविरोका गाव इत्यभिहितास्तु समानाः ॥ ३९ ॥
verse 1.1.1.38
page 0006

इच्छा

वाञ्छा, स्पृहा, काङ्क्षा, कामना, ईप्सा, रुचि, आशंसा

इच्छा वाञ्छा स्पृहा काङ्क्षा कामनेप्सा रुचिस्तथा ।
आशंसा चेति तुल्यार्था निश्चितं नियतं स्मृतम् ॥ ७१० ॥
verse 4.1.1.710
page 0082