द्युम्न

द्रव्य, द्रविण, रै, सार, स्वापतेय, अर्थ, स्व, ऋक्थ, पृक्थ, वित्त, धन, हिरण्य, वसु, विभव

द्युम्नं द्रव्यं द्रविणं राः सारं स्वापतेयमर्थः स्वम् ।
ऋक्थं पृक्थं वित्तं धनं हिरण्यं च वसु विभवः ॥ ८० ॥
verse 1.1.1.80
page 0010

हेमन्

स्वर्ण, जातरूप, सुवर्ण, भर्मन्, रुक्म, हाटक, शातकुम्भ, गाङ्गेय, गैरिक, भूरि, चन्द्र, रै, कल्याण, निष्क, अष्टापद, जाम्बूनद, हिरण्य, कनक, महारजत, काञ्चन, कार्तस्वर, चामीकर, कर्बुर, तपनीय

हेम स्वर्णं जातरूपं सुवर्णं,
भर्मं रुक्मं हाटकं शातकुम्भम् ।
गाङ्गेयं स्याद्गैरिकं भूरि चन्द्रं,
राः कल्याणं निष्कमष्टापदं च ॥ १७३ ॥
जाम्बूनदं हिरण्यं कनकमहारजतकाञ्चनानि स्युः ।
कार्तस्वरचामीकरकर्बुरतपनीयनामानि ॥ १७४ ॥
verse 2.1.1.173
page 0022