वप्र

शाल, प्राकार

वप्रं शालं प्राकारमाहुरररं कपाटं च ॥ २८८ ॥
verse 2.1.1.288
page 0035

वप्र

क्षेत्र, केदार

सीत्यं सस्यं प्रोक्तं वप्रं क्षेत्रं च केदारम् ॥ ५७४ ॥
verse 2.1.1.574
page 0065

सिन्धु

स्रवन्ती, तटिनी, तरङ्गिणी, नदी, धुनी, निर्झरिणी, निम्नगा, कूलङ्कषा, शैवलिनी, सरस्वती, समुद्रकान्ता, ह्रदिनी, आपगा, स्रोतस्, स्रोतस्विनी, कर्षू, कुल्या, द्वीपवती, सरित्, रोधस्, वप्र, भिद्य, उद्ध्य, नद

सिन्धुः स्रवन्ती तटिनी तरङ्गिणी,
नदी धुनी निर्झरिणी च निम्नगा ।
कूलङ्कषा शैवलिनी सरस्वती,
समुद्रकान्ता ह्रदिनी तथापगा ॥ ६६५ ॥
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।
रोधो वप्रस्तु विज्ञेयो भिद्य उद्धयो नदः स्मृतः ॥ ६६६ ॥
verse 3.1.1.665
page 0076

वप्र

गिरिसानु

गिरिसानुन्यपि वप्रं तल्पं दारेषु चक्षुषि ज्योतिः ।
verse 5.1.1.810
page 0093