शौद्धोदनि

दशबल, वृद्ध, शाक्य, तथागत, सुगत, मारजित्, अद्वयवादिन्, समन्तभद्र, जिन, सिद्धार्थ

शौद्धोदनिर्दशबलो वृद्धः शाक्यस्तथागतः सुगतः ।
मारजिदद्वयवादी समन्तभद्रो जिनश्च सिद्धार्थः ॥ ८५ ॥
verse 1.1.1.85
page 0011

धीर

धीमत्, लब्धवर्ण, विपश्चित्, वृद्ध, विद्वस्, प्राप्तरूप, अभिरूप, सूरि, प्राज्ञ, पण्डित, मनीषिन्, ज्ञ, दोषज्ञ, कोविद, प्रबुद्ध, बुध, सुधी, कृती, कृष्टि, कवि, व्यक्त, विशारद, विचक्षण, मेधाविन्, संख्यावत्, मतिमत्

धीरो धीमान् लब्धवर्णो विपश्चिद्,
वृद्धो विद्वान् प्राप्तरूपोऽभिरूपः ।
सूरिः प्राज्ञः पण्डितः सन्मनीषी,
ज्ञो दोषज्ञः कोविदः स्यात्प्रबुद्धः ॥ ३३२ ॥
बुधः सुधीः कृती कृष्टिः कविर्व्यक्तो विशारदः ।
विचक्षणश्च मेधावी संख्यावान्मतिमान्मतः ॥ ३३३ ॥
verse 2.1.1.332
page 0040

प्रवयस्

स्थविर, वृद्ध, यातयाम

प्रवयाः स्थविरो वृद्धो यातयामश्च कथ्यते ।
verse 2.1.1.503
page 0057