आकल्प

मण्डन, वेष, प्रतिकर्मन्, प्रसाधन, भूषण, अलङ्कार, नेपथ्य, आभरण

आकल्पो मण्डनं वेषः प्रतिकर्म प्रसाधनम् ।
भूषणं स्यादलङ्कारो नेपथ्याभरणे तथा ॥ ५३९ ॥
verse 2.1.1.539
page 0061

वर्ण

शुक्लादि, ब्राह्मणादि, शोभा, अक्षर, व्रत, गीतक्रम, स्तुति, वेष

शुक्लादौ ब्राह्मणादौ च शोभायामक्षरे व्रते ।
गीतक्रमे स्तुतौ वेषे वर्णशब्दं प्रचक्षते ॥ ८६० ॥
verse 5.1.1.860
page 0098