एण

कुरङ्ग, हरिण, मृग, सारङ्ग, ऋष्य, पृषत, रुरु, न्यङ्कु, रङ्कु, वातप्रमी, शम्बर, कृष्णसार

एणः कुरङ्गो हरिणो मृगः स्यात्
सारङ्ग ऋष्यः पृषतो रुरुश्च ।
न्यङ्कुस्तथा रङ्कुरिति प्रसिद्धा,
वातप्रमीशम्बरकृष्णसाराः ॥ २३० ॥
verse 2.1.1.230
page 0028

आप्

तोय, घन, रस, पयस्, पुष्कर, मेघपुष्प, क, पानीय, सलिल, उदक, वारि, वार्, शम्बर, अर्णस्, पाथस्, कुश, जल, वन, क्षीर, अम्भस्, अम्बु, नीर, भुवन, अमृत, जीवनीय, दक

आपस्तोयं घनरसपयः पुष्करं मेघपुष्पं,
कं पानीयं सलिलमुदकं वारि वाः शम्बरं च ।
अर्णः पाथः कुशजलवनं क्षीरमम्भोऽम्बु नीरं,
प्रोक्तं प्राज्ञैर्भुवनममृतं जीवनीयं दकं च ॥ ६४८ ॥
verse 3.1.1.648
page 0074