सप्तार्चिस्

बहुल, शिखिन्, हुतवह, वैश्वानर, अग्नि, वसु, वह्नि, वायुसख, सितेतरगति, स्वाहाप्रिय, पावक, अर्चिष्मत्, ज्वलन, कृशानु, अनल, धूमध्वज, हव्यवाह्, बर्हिर्ज्योतिस्, उषर्बुध, दहन, चित्रभानु, शुचि, कृपीटयोनि, दमुनस्, कृष्णवर्त्मन्, आशुशुक्षणि, विभावसु, अपांपित्त, जातवेदस्, तनूनपाद्, वीतिहोत्र, बृहद्भानु, आश्रयाश, धनञ्जय, हिरण्यरेतस्, तमोघ्न, रोहिताश्व, हुताशन

सप्तार्चिर्बहुलः शिखी हुतवहो वैश्वानरोऽग्निर्वसु-
र्वह्निर्वायुसखः सितेतरगतिः स्वाहाप्रियः पावकः ।
अर्चिष्मान् ज्वलनः कृशानुरनलो धूमध्वजो हव्यवाट्,
बर्हिर्ज्योतिरुषर्बुधश्च दहनः स्याच्चित्रभानुः शुचिः ॥ ६२ ॥
कृपीटयोनिर्दमुनाः कृष्णवर्त्माशुशुक्षणिः ।
विभावसुरपांपित्तं जातवेदास्तनूनपात् ॥ ६३ ॥
वीतिहोत्रो वृहद्भानुराश्रयाशो धनञ्जयः ।
हिरण्यरेतास्तमोघ्नो रोहिताश्वो हुताशनः ॥ ६४ ॥
verse 1.1.1.62
page 0009

मधु

माधव, शुक्र, शुचि, नभस्, नभस्य, इष, ऊर्ज, सहस्, सहस्य, तपस्, तपस्य

चैत्रादिमासा मधुमाधवौ द्वौ,
ततः परं शुक्रशुची क्रमेण ।
नभोनभस्यौ कथिताविषोर्जौ,
सहःसहस्यौ च तपस्तपस्यौ ॥ ११४ ॥
verse 1.1.1.114
page 0014

शुचि

मेध्य, पवित्र, पुण्य, पावन, विमल, विशद, विध्र, उज्ज्वल, अनाविल

शुचिर्मेध्यं पवित्रं च पुण्यं पावनमुच्यते ।
विमलं विशदं वीध्रमुज्ज्वलं स्यादनाविलम् ॥ १३२ ॥
verse 1.1.1.132
page 0016

शुचि

शुक्ल

वामः प्रतिकूलेऽपि प्रोक्तौ शुक्लेऽपि शुचिरामौ ॥ ८०८ ॥
verse 5.1.1.808
page 0093