अरण्य

अटवी, सत्त्र, कान्तार, कानन, वन, विपिन, गहन

अरण्यमटवी सत्त्रं कान्तारं काननं वनम् ।
विपिनं गहनं चेति नातिभिन्नार्थमिष्यते ॥ २१० ॥
verse 2.1.1.210
page 0026

याग

यज्ञ, क्रतु, स्तोम, सप्ततन्तु, मख, अध्वर, वितान, संस्तर, बर्हिस्, सव, सत्त्र

यागो यज्ञः क्रतुः स्तोमः सप्ततन्तुर्मखोऽध्वरः ।
वितानं संस्तरो बर्हिः सवः सत्त्रं च कथ्यते ॥ ४१४ ॥
verse 2.1.1.414
page 0048