सङ्ग्राम

समिति, समित्, समर, संख्य, समीक, रण, युद्ध, युध्, प्रधन, मृध, समुदय, संयत्, कलि, संयुग, द्वन्द्व, आयोधन, सम्प्रहार, कलह, आक्रन्द, आहव, अभ्यागम, संस्फोट, प्रविदारण, प्रहरण, अनीक, आजि, सङ्गर, सम्पराय, समाघात, प्रघात, समाह्वय, जन्य, अभिसम्पात, सम्मर्द, विग्रह

सङ्ग्रामः समितिः समिच्च समरं संख्यं समीकं रणं,
युद्धं युत्प्रधनं मृधं समुदयः संयत्कलिः संयुगम् ।
द्वन्द्वायोधनसम्प्रहारकलहाक्रन्दाहवाभ्यागमाः,
संस्फोटप्रविदारणप्रहरणानीकाजयः सङ्गरः ॥ ४५३ ॥
सम्परायः समाघातः प्रघातश्च समाह्वयः ।
जन्यं स्यादभिसम्पातः सम्मर्दो विग्रहस्तथा ॥ ४५४ ॥
verse 2.1.1.453
page 0052

निकर

निकाय, निवह, विसर, व्रज, पुञ्ज, समूह, सञ्चय, समुदय, सार्थ, यूथ, निकुरम्ब, कदम्ब, पूग, राशि, चय, समवाय, वृन्द, सन्दोह, समाज, वितान, संहति, प्रकर, घन, ओघ, संघ, संघात, व्रात, कुल, उत्कर, पटल, पेटक, चक्र, चक्रवाल, मण्डल, जाल, जात, व्यूह, वार, स्तोम

निकरनिकायनिवहविसरव्रजपुञ्जसमूहसञ्चयाः,
समुदयसार्थयूथनिकुरम्बकदम्बकपूगराशयः ।
चयसमवायवृन्दसन्दोहसमाजवितानसंहति-
प्रकरघनौघसंघसंघातव्रातकुलोत्कराः स्मृताः ॥ ६८६ ॥
पटलं पेटकं चक्रं चक्रवालं च मण्डलम् ।
जालं जातं तथा व्यूहवारस्तोमाश्च ते स्मृताः ॥ ६८७ ॥
verse 4.1.1.686
page 0079