साधन

उपकरण, करण, द्रविण, लिङ्ग, यातना, सेनाङ्ग, संसिद्धि

उपकरणे करणे च द्रविणे लिङ्गे च यातनायां च ।
सेनाङ्गे संसिद्धौ साधनशब्दप्रयोगः स्यात् ॥ ८६६ ॥
verse 5.1.1.866
page 0099