आवास

आवसथ, गृह, भवन, स्थान, निशान्त, कुल, संस्त्याय, निलय, निकाय्य, उटज, गेह, कुट, मन्दिर, धिष्ण्य, धामन्, निकेतन, सदन, पस्त्य, वास्तु, क्षय, शाला, वेश्मन्, निवेशन, उदवसित, सद्मन्, ओकस्, शरण, अगार, निवसन, आलय

आवासावसथं गृहं च भवनं स्थानं निशान्तं कुलं,
संस्त्यायो निलयो निकाय्यमुटजं गेहं कुटं मन्दिरम् ।
धिष्ण्यं धाम निकेतनं च सदनं पस्त्यं च वास्तु क्षयः
शाला वेश्म निवेशनोदवसिते प्रोक्ते च सद्मौकसी ॥ २९१ ॥
शरणमगारं निवसनमालय एकार्थवाचकाः शब्दाः ।
verse 2.1.1.291
page 0035

अयन

स्थान

स्थण्डिलं संस्कृता भूमिरयनं स्थानमुच्यते ॥ ७६२ ॥
verse 4.1.1.762
page 0087

स्थिति

स्थान, व्यवस्था

ब्रध्नस्तण्डुगिरिशयोः स्थितिः स्थानव्यवस्थयोः ।
verse 5.1.1.837
page 0096