ब्रह्मन्

स्रष्टृ, परमेष्ठिन्, धातृ, पद्मभू, सुरज्येष्ठ, वेधस्, विधि, विरिञ्च, हिरण्यगर्भ, शतानन्द, शम्भु, स्वयम्भू, द्रुहिण, चतुर्वक्त्र, प्रजापति, पितामह, जगत्कर्तृ, विरञ्चि, कमलासन

ब्रह्मा स्रष्टा परमेष्ठी धाता पद्मभूः सुरज्येष्ठः ।
वेधा विधिर्विरिञ्चो हिरण्यगर्भः शतानन्दः ॥ ६ ॥
शम्भुः स्वयम्भूर्द्रुहिणश्चतुर्वक्त्रः प्रजापतिः ।
पितामहो जगत्कर्ता विरञ्चिः कमलासनः ॥ ७ ॥
verse 1.1.1.6
page 0002

ईशान

शशिशेखर, पशुपति, शूली, शिव, शङ्कर, शर्व, शम्भु, उमापति, गिरिश, श्रीकण्ठ, उग्र, हर, सर्वज्ञ, त्रिपुरान्तक, त्रिनयन, रुद्र, कपर्दिन्, भव, भूतेश, परमेश्वर, अन्धकरिपु, दक्षाध्वरध्वंसकृत्, स्थाणु, स्रष्टृ, धूर्जटि, वामदेव, कामध्वंसिन्, व्योमकेश, कपालिन्, नीलग्रीव, वह्निरेतस्, पिनाकिन्, भीम, भर्ग, कृत्तिवासस्, वृषाङ्क, अहिर्बुध्न, विरूपाक्ष, शिपिविष्ट, गणाधिप, गङ्गाधर, महादेव, मृड, नीललोहित

ईशानः शशिशेखरः पशुपतिः शूली शिवः शङ्करः,
शर्वः शम्भुरुमापतिश्च गिरिशः श्रीकण्ठ उग्रो हरः ।
सर्वज्ञस्त्रिपुरान्तकस्त्रिनयनो रुद्रः कपर्दी भवो,
भूतेशः परमेश्वरोऽन्धकरिपुर्दक्षाध्वरध्वंसकृत् ॥ ११ ॥
स्थाणुः स्रष्टा धूर्जटिर्वामदेवः,
कामध्वंसी व्योमकेशः कपाली ।
निलग्रीवो वह्निरेताः पिनाकी,
भीमो भर्गः कृत्तिवासा वृषाङ्कः ॥ १२ ॥
अहिर्बुध्नो विरूपाक्षः शिपिविष्टो गणाधिपः ।
गङ्गाधरो महादेवो मृडः स्यान्नीललोहितः ॥ १३ ॥
verse 1.1.1.11
page 0003