अक्ष, इन्द्रिय, स्रोतस्, हृषीक, करण

खमक्षमिन्द्रियं स्रोतो हृषीकं करणं स्मृतम् ॥ ५३५ ॥
verse 2.1.1.535
page 0061

सिन्धु

स्रवन्ती, तटिनी, तरङ्गिणी, नदी, धुनी, निर्झरिणी, निम्नगा, कूलङ्कषा, शैवलिनी, सरस्वती, समुद्रकान्ता, ह्रदिनी, आपगा, स्रोतस्, स्रोतस्विनी, कर्षू, कुल्या, द्वीपवती, सरित्, रोधस्, वप्र, भिद्य, उद्ध्य, नद

सिन्धुः स्रवन्ती तटिनी तरङ्गिणी,
नदी धुनी निर्झरिणी च निम्नगा ।
कूलङ्कषा शैवलिनी सरस्वती,
समुद्रकान्ता ह्रदिनी तथापगा ॥ ६६५ ॥
स्रोतः स्रोतस्विनी कर्षूः कुल्या द्वीपवती सरित् ।
रोधो वप्रस्तु विज्ञेयो भिद्य उद्धयो नदः स्मृतः ॥ ६६६ ॥
verse 3.1.1.665
page 0076

ओघ

प्रवाह, वेणी, धारा, स्रोतस्, रय

ओघः प्रवाहो वेणी च धारा स्रोतो रयः स्मृतः ।
verse 3.1.1.669
page 0076