गौरीपुत्र

षण्मुख, शक्तिपाणि, क्रौञ्चाराति, कार्तिकेय, विशाख, स्कन्द, स्वामिन्, तारकारि, कुमार, सेनानी, अग्निभू, बाहुलेय, गाङ्गेय, ब्रह्मचारिन्, गुह, वर्हिणवाहन, महासेन, महातेजस्, शरजन्मन्

गौरीपुत्रः षण्मुखः शक्तिपाणिः,
क्रौञ्चारातिः कार्त्तिकेयो विशाखः ।
स्कन्दः स्वामी तारकारिः कुमारः,
सेनानीः स्यादग्निभूर्बाहुलेयः ॥ १९ ॥
गाङ्गेयो ब्रह्मचारी च गुहो वर्हिणवाहनः ।
महासेना महातेजाः शरजन्मा च कथ्यते ॥ २० ॥
verse 1.1.1.19
page 0003

अर्य

परिवृढ, स्वामिन्, प्रभु, नेतृ, नायक, अधिभू, अधिप, अधीश, अधिपति

अर्यः परिवृढः स्वामी प्रभुर्नेता च नायकः ।
अधिभूरधिपः प्रोक्ता ह्यधीशोऽधिपतिस्तथा ॥ ३४३ ॥
verse 2.1.1.343
page 0041

इन

स्वामिन्

निदानमवसानेऽपि स्वामिन्यपि भवेदिनः ।
verse 5.1.1.825
page 0095