विष्णु

कृष्ण, केशव, मञ्जुकेशी, श्रीवत्साङ्क, श्रीपति, पीतवासस्, विष्वक्सेन, विश्वरूप, मुरारि, शौरि, शार्ङ्गिन्, पद्मनाभ, मुकुन्द, गोविन्द, धरणिधर, सुपर्णकेतु, वैकुण्ठ, जलशयन, चतुर्भुज, दैत्यारि, मधुमथन, रथाङ्गपाणि, दाशार्ह, क्रतुपुरुष, वृषाकपि, जनार्दन, अधोक्षज, वासुदेव, दामोदर, श्रीधर, अच्युत, उपेन्द्र, इन्द्रावरज, बभ्र, हरि, हृषीकेश, आत्मभू, पुण्डरीकाक्ष, श्रीवत्स, विष्टरश्रवस्, नारायण, जगन्नाथ, वनमाली, गदाधर, सनातन, जिन, शम्भु, विधि, वेधस्, गदाग्रज, कैटभारि, अज, जिष्णु, कंसजित्, पुरुषोत्तम

विष्णुः कृष्णः केशवो मञ्जुकेशी,
श्रीवत्साङ्कः श्रीपतिः पीतवासाः ।
विष्वक्सेनो विश्वरूपो मुरारिः,
शौरिः शार्ङ्गी पद्मनाभो मुकुन्दः ॥ २१ ॥
गोविन्दो धरणिधरः सुपर्णकेतु-
र्वैकुण्ठो जलशयनश्चतुर्भुजश्च ।
दैत्यारिर्मधुमथनो रथाङ्गपाणि-
र्दाशार्हः क्रतुपुरुषो वृषाकपिः स्यात् ॥ २२ ॥
जनार्दनाधोक्षजवासुदेवं दामोदरं श्रीधरमच्युतं च ।
उपेन्द्रमिन्द्रावरजं च बभ्रं हरिं हृषीकेशमुदाहरन्ति ॥ २३ ॥
आत्मभूः पुण्डरीकाक्षः श्रीवत्सो विष्टरश्रवाः ।
नारायणो जगन्नाथो वनमाली गदाधरः ॥ २४ ॥
सनातनो जिनः शम्भुर्विधिर्वेधा गदाग्रजः ।
कैटभारिरजो जिष्णुः कंसजित्पुरुषोत्तमः ॥ २५ ॥
verse 1.1.1.21
page 0004

आदित्य

सवितृ, सहस्रकिरण, प्रद्योतन, भास्कर, तिग्मांशु, तरणि, दिनमणि, भास्वत्, विवस्वत्, हरि, मार्तण्ड, तपन, विकर्तन, इन, पूषन्, पतङ्ग, भग, सूर्य, गोपति, यम, दिनकर, सूर, अंशुमालिन्, रवि, मिहिर, विरोचन, अर्क, तिमिररिपु, द्युमणि, अंशुमत्, अंशु, हरिदश्व, सप्ताश्व, प्रभाकर, भानुमत्, भानु, ब्रध्न, हंस, खग, मित्र, चित्रभानु, अहर्पति, कर्मसाक्षिन्, जगच्चक्षुस्, द्वादशात्मन्, त्रयीतनु

आदित्यः सविता सहस्रकिरणः प्रद्योतनो भास्कर-
स्तिग्मांशुस्तरणिस्तथा दिनमणिर्भास्वान्विवस्वान्हरिः ।
मार्तण्डस्तपनो विकर्तन इनः पूषा पतङ्गो भगः,
सूर्यो गोपतिरर्यमा दिनकरः सूरोंऽशुमाली रविः ॥ ३५ ॥
मिहिरो विरोचनोऽर्कस्तिमिररिपुर्द्युमणिरंशुमानंशुः ।
हरिदश्वः सप्ताश्वः प्रभाकरो भानुमान्भानुः ॥ ३६ ॥
ब्रध्नो हंसः खगो मित्रश्चित्रभानुरहर्पतिः ।
कर्मसाक्षी जगच्चक्षुर्द्वादशात्मा त्रयीतनुः ॥ ३७ ॥
verse 1.1.1.35
page 0006

इन्द्र

दुश्च्यवन, हरि, सुरपति, सङ्क्रन्दन, वासव, वृत्रारि, बलसूदन, शतमख, वृद्धश्रवस्, कौशिक, जिष्णु, वज्रधर, सहस्रनयन, वास्तोष्पति, गोपति, पर्जन्य, मघवन्, वृषन्, हरिहय, प्राचीनबर्हिस्, पुरुहूत, पृतनाषाट्, पुरन्दर, पूर्वदिक्पति, स्वाराज्, आखण्डल, तुराषाह्, सुत्रामन्, गोत्रभिद्, सुनासीर, शक्र, उग्रधन्वन्, हरिवत्, पाकशासन, दिवस्पति, विडौजस्, मरुत्वत्, मेघवाहन

इन्द्रो दुश्च्यवनो हरिः सुरपतिः सङ्क्रन्दनो वासवो,
वृत्रारिर्बलसूदनः शतमखो वृद्धश्रवाः कौशिकः ।
जिष्णुर्वज्रधरः सहस्रनयनो वास्तोष्पतिर्गोपतिः,
पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः ॥ ५२ ॥
पुरुहूतः पृतनाषाट् पुरन्दरः पूर्वदिक्पतिः स्वाराट् ।
आखण्डलस्तुराषाट् सुत्रामा गोत्रभित्सुनासीरः ॥ ५३ ॥
शक्रः स्यादुग्रधन्वा च हरिवान्पाकशासनः ।
दिवस्पतिर्विडौजाश्च मरुत्वान्मेघवाहनः ॥ ५४ ॥
verse 1.1.1.52
page 0008

शमन

समवर्तिन्, प्रेतपति, पितृपति, कीनाश, वैवस्वत, कृतान्त, कालिन्दीसोदर, काल, अन्तक, धर्मराज, यम, दण्डधर, हरि, दक्षिणाशापति, श्राद्धदेव

शमनः समवर्ती च प्रेतपतिः पितृपतिश्च कीनाशः ।
वैवस्वतः कृतान्तः कालिन्दीसोदरः कालः ॥ ७१ ॥
अन्तको धर्मराजश्च यमो दण्डधरो हरिः ।
दक्षिणाशापतिः सद्भिः श्राद्धदेवश्च कथ्यते ॥ ७२ ॥
verse 1.1.1.71
page 0010

पवन

श्वसन, वायु, मरुत्, अनिल, मारुत, जगत्प्राण, पृषदश्व, पवमान, प्रभञ्जन, स्पर्शन, वात, नभस्वत्, मातरिश्वन्, समीर, समीरण, सदागति, गन्धवह, हरि, महाबल

पवनः श्वसनो वायुर्मरुदनिलो मारुतो जगत्प्राणः ।
पृषदश्वः पवमानः प्रभञ्जनः स्पर्शनो वातः ॥ ७५ ॥
नभस्वान्मातरिश्वा च समीरश्च समीरणः ।
सदागतिर्गन्धवहो हरिः प्रोक्तो महाबलः ॥ ७६ ॥
verse 1.1.1.75
page 0010

हरि

मृगपति, पञ्चानन, केसरिन्, हर्यक्ष, नखरायुध, मृगरिपु, सिंह, कण्ठीरव

तुल्यार्थाः कथिता हरिर्मृगपतिः पञ्चाननः केसरी,
हर्यक्षो नखरायुधो मृगरिपुः सिंहश्च कण्ठीरवः ॥ २१४ ॥
verse 2.1.1.214
page 0026

बलीमुख

मर्कटक, वनौकस्, प्लवङ्गम, प्लवग, प्लवङ्ग, हरि, कपि, कीश, शाखामृग, वानर

बलीमुखो मर्कटको वनौकाः,
प्लवङ्गमः स्यात्प्लवगः प्लवङ्गः ।
हरिः कपिः कीश इमे च शब्दाः,
शाखामृगो वानर इत्यभिन्नाः ॥ २३१ ॥
verse 2.1.1.231
page 0029

अर्वन्

गन्धर्व, अश्व, सप्ति, वाजिन्, तुरङ्गम, तुरग, तार्क्ष्य, हरि, तुरङ्ग, युयु, घोटक, हय, वाह

अर्वा गन्धर्वोऽश्वः सप्तिर्वाजी तुरङ्गमस्तुरगः ।
तार्क्ष्यो हरिस्तुरङ्गो युयुरुक्तो घोटको हयो वाहः ॥ ४३६ ॥
verse 2.1.1.436
page 0050

मण्डूक

प्लवक, भेक, शालूर, दर्दुर, हरि, प्लवङ्गम, प्लवग

मण्डूकः प्लवको भेकः शालूरो दर्दुरो हरिः ।
प्लवङ्गमः प्लवगः स्याद्वर्षाभूस्तद्वधूः स्मृता ॥ ६६२ ॥
verse 3.1.1.662
page 0075

हरि

कद्रु, कडार, पिङ्गल

हरिः कद्रुः कडारश्च पुङ्गलः परिकीर्तितः ।
verse 4.1.1.735
page 0084

हरि

अर्क, मर्कट, मण्डूक, विष्णु, वासव, वायु, तुरङ्ग, सिंह, शीतांशु, यम

अर्कमर्कटमण्डूकविष्णुवासववायवः ।
तुरङ्गसिंहशीतांशुयमाश्च हरयो दश ॥ ८५६ ॥
verse 5.1.1.856
page 0098